Ganga Mata Stotram

Ganga Mata Stotram

॥ गंगा माता स्तोत्रम् ॥

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे।

शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले॥1॥

भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः।

नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम्॥2॥

हरिपदपाद्यतरङ्गिण गङ्गे हिमविधुमुक्ताधवलतरङ्गे।

दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम्॥3॥

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम्।

मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः॥4॥

पतितोद्धारिणि जाह्नवि गङ्गे खण्डितगिरिवरमण्डितभङ्गे।

भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये॥5॥

कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके।

पारावारविहारिणि गङ्गे विमुखयुवतिकृततरलापाङ्गे॥6॥

तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः।

नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुड़े॥7॥

पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे।

इंद्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये॥8॥

रोगं शोकं तापं पापं हर हर मे भगवति कुमतिकलापम्।

त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे॥9॥

अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये।

तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः॥10॥

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः।

अथवा श्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः॥11॥

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये।

गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम्॥12॥

येषां हृदये गङ्गाभक्तिस्तेषां भवति सदा सुखमुक्तिः।

मधुराकान्तापज्झटिकाभिः परमानन्दकलितललिताभिः॥13॥

गंगास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम्।

शङ्करसेवकशङ्कररचितं पठति सुखीः तव इति च समाप्तः॥14॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥

Today's Astrological Thoughts

“Destiny changes only for those who take action.”

— Bhrigu

Join Our Astrology WhatsApp Channel

Get daily horoscope updates, astro tips, and lucky insights directly on WhatsApp. Don’t miss your chance to stay one step ahead of destiny!